Rakshat Gangam...
भुवनमोहनकीर्तिभिरञ्चिता
मदनमोहन -वाग्विशदीकृता
श्रवणमङ्गलमातनुते नृणां
सरसमञ्जुलभागवती कथा।।४।।...
Rakshat Gangam...
मदनमोहनगीतम्--गङ्गारत्न आचार्या कमला पाण्डेया
विधुविभेव विभाति यश:प्रभा
बुधगणैर्बहुशो विततीकृता
यदकृताद्भुतकर्म हिताय नो
मनुजतानुभवेदधमर्णता।।३।।...
Rakshat Gangam...
मदनमोहनगीतम्--गङ्गारत्न आचार्या कमला पाण्डेय
मदनमोहन!ते चरितं शुभं
सुविशदं परिगातुमनिन्दितम्।
शतदलं हृदयं कमलायते
विकसितुं सरसं सुमनोहरम्।।२।।...
Rakshat Gangam...
मदनमोहनगीतम्--
गङ्गारत्न आचार्या कमला पाण्डेया
ज्ञान- ज्योतिरनुत्तमं ज्वलयति स्वान्त:प्रदीपेषु क:?
क्षुब्धो भारतमातरं निपतितां दृष्ट्वा परेषां करे।
आबद्धामवलोक्य बन्धनिगडे गङ्गां क्रुद्धा मूर्च्छित:
शिक्षा-दात्रशयोऽन्धकार-कलिलं छेत्तुं क उज्जृम्भते।।१।।...
